|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.184. अध्यायः 184
Mahabharata - Adi Parva - Chapter Topics
प्रस्थानसमयागते व्यासेन पाण्डवान्प्रति द्रौपदीवृत्तान्तकथनपूर्वकं भविष्यद्द्रौपदीलाभकथनम्॥ 1 ॥ व्यासस्य प्रतिनिवर्तनम्॥ 2 ॥
Mahabharata - Adi Parva - Chapter Text
वैशम्पायन उवाच। 1-184-0x(1053)(8261)
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु।
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः॥ 1-184-1(8262)
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा॥ 1-184-2(8263)
समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः॥ 1-184-3(8264)
अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते॥ 1-184-4(8265)
अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्॥ 1-184-5(8266)
आसीत्तपोवने काचिदृषेः कन्या महात्मनः।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता॥ 1-184-6(8267)
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती॥ 1-184-7(8268)
तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः।
तोषयामास तपसा सा किलोग्रेण शङ्करम्॥ 1-184-8(8269)
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम्।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः॥ 1-184-9(8270)
अथेश्वरमुवाचेदमात्मनः सा वचो हितम्।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः॥ 1-184-10(8271)
तामथ प्रत्युवाचेदमीशानो वदतां वरः।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः॥ 1-184-11(8272)
एवमुक्ता ततः कन्या देवं वरदमब्रवीत्।
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो॥ 1-184-12(8273)
पुनरेवाब्रवीद्देव इदं वचनमुत्तमम्।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः॥ 1-184-13(8274)
देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति। 1-184-14(8275)
व्यास उवाच।
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी॥ 1-184-14x(1054)
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता।
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः॥ 1-184-15(8276)
एवमुक्त्वा महाभागः पाण्डवान्स पितामहः।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः॥ ॥ 1-184-16(8277)
इति श्रीमन्महाभारते आदिपर्वणि चैत्ररथपर्वणि चतुरशीत्यधिकशततमोऽध्यायः॥ 184 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-184-6 विलग्नमध्या विलग्नं समदेशे शयने भूतलास्पृष्टं मध्यं शरीरमध्यभागो यस्याः सा कृशमध्येति यावत्॥ चतुरशीत्यधिकशततमोऽध्यायः॥ 184 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|